|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.190. अध्यायः 190
Mahabharata - Adi Parva - Chapter Topics
गन्धर्वेण वसिष्ठमाहात्म्यकथनपूर्वकं पाण्डवानां पुरोहितसंग्रहणोपदेशः॥ 1 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-190-0x(1082)(8514)
स गन्धर्ववचः श्रुत्वा तत्तदा भरतर्षभ।
अर्जुनः परया भक्त्या पूर्णचन्द्र इवाबभौ॥ 1-190-1(8515)
उवाच च महेष्वासो गन्धर्वं कुरुसत्तमः।
जातकौतूहलोऽतीव वसिष्ठस्य तपोबलात्॥ 1-190-2(8516)
वसिष्ठ इति तस्यैतदृषेर्नाम त्वयेरितम्।
एतदिच्छाम्यहं श्रोतुं यथावत्तद्वदस्व मे॥ 1-190-3(8517)
य एष गन्धर्वपते पूर्वेषां नः पुरोहितः।
आसीदेतन्ममाचक्ष्व क एष भगवानृषिः॥ 1-190-4(8518)
गन्धर्व उवाच। 1-190-5x(1083)
ब्रह्मणो मानसः पुत्रो वसिष्ठोऽरुन्धतीपतिः।
तपसा निर्जितौ शश्वदजेयावमरैरपि॥ 1-190-5(8519)
कामक्रोधावुभौ यस्य चरणौ समुवाहतुः।
इन्द्रियाणां वशकरो वशिष्ठ इति चोच्यते॥ 1-190-6(8520)
`यथा कामश्च क्रोधश्च निर्जितावजितौ नरैः।
जितारयो जिता लोकाः पन्थानश्च जिता दिशः॥' 1-190-7(8521)
यस्तु नोच्छेदनं चक्रे कुशिकानामुदारधीः।
विश्वामित्रापराधेन धारयन्मन्युमुत्तमम्॥ 1-190-8(8522)
पुत्रव्यसनसंतप्तः शक्तिमानप्यशक्तवत्।
विश्वामित्रविनाशाय न चक्रे कर्म दारुणम्॥ 1-190-9(8523)
मृतांश्च पुनराहर्तुं शक्तः पुत्रान्यमक्षयात्।
कृतान्तं नातिचक्राम वेलामिव महोदधिः॥ 1-190-10(8524)
यं प्राप्य विजितात्मानं महात्मानं नराधिपाः।
इक्ष्वाकवो महीपाला लेभिरे पृथिवीमिमाम्॥ 1-190-11(8525)
पुरोहितमिमं प्राप्य वसिष्ठमृषिसत्तमम्।
ईजिरे क्रतुभिश्चैव नृपास्ते कुरुनन्दन॥ 1-190-12(8526)
स हि तान्याजयामास सर्वान्नृपतिसत्तमान्।
ब्रह्मर्षिः पाण्डवश्रेष्ठ बृहस्पतिरिवामरान्॥ 1-190-13(8527)
तस्माद्धर्मप्रधानात्मा वेदधर्मविदीप्सितः।
ब्राह्मणो गुणवान्कश्चित्पुरोधाः प्रतिदृश्यताम्॥ 1-190-14(8528)
क्षत्रियेणाभिजातेन पृथिवीं जेतुमिच्छता।
पूर्वं पुरोहितः कार्यः पार्थ राज्याभिवृद्धये॥ 1-190-15(8529)
महीं जिगीषता राज्ञा ब्रह्म कार्यं पुरःस्कृतम्।
तस्मात्पुरोहितः कश्चिद्गुणवान्विजितेन्द्रियः।
विद्वान्भवतु वो विप्रो धर्मकामार्थतत्त्ववित्॥ ॥ 1-190-16(8530)
इति श्रीमन्महाभारते आदिपर्वमि चैत्ररथपर्वणि नवत्यधिकशततमोऽध्यायः॥ 190 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-190-2 तपोबलात् तपोबलं श्रुत्वा॥ 1-190-7 जितारयः जिता अस्य इति च्छेदः॥ 1-190-8 अपराधेन पुत्रशतवधरूपेण॥ नवत्यधिकशततमोऽध्यायः॥ 190 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|